संस्कृत व्याकरण के 💯 प्रश्न उत्तर

१०० संस्कृत वैयाकरणस्य प्रश्नोत्तराण

(१.) “अष्टाध्यायी” इत्यस्य ग्रन्थस्य रचनाकारः कः ? – पाणिनिः

(२.) अष्टाध्याय्यां कति अध्यायाः ? – अष्टौ

(३.) अष्टाध्याय्यां कति पादाः ? -३२

(४.) सिद्धान्तकौमुदी इत्यस्य रचयिता क: ? – भट्टोजिदीक्षित:।

(५.) बालमनोरमाटीकाया: कर्ता क: ? – वासुदेवदीक्षित:।

(६.) तत्त्वबोधिनीव्याख्याया: कर्ता क: ? – श्रीज्ञानेन्द्रसरस्वती ।

(७.) प्रक्रियाकौमुदी इत्यस्य ग्रन्थस्य कर्त्ता कः ? – रामचन्द्रः

(८.) अष्टाध्याय्यां प्रत्याहारसूत्राणि कति ? – चतुर्दश। (९.) प्रत्याहारसूत्रेषु को‌ऽयं वर्ण: द्विरनुबध्यते ?- णकार:।

(१०.) प्रत्याहारसूत्रेषु को‌ऽयं वर्ण: द्विरुपदिष्ट: ? – हकार:।

(११.) किमर्थमुपदिष्टानि प्रत्याहारसूत्राणि ?- अणादिप्रत्याहारसंज्ञार्थानि।

(१२.) वेदपुरुषस्य मुखात्मकं वेदाङ्गं किम् ? – व्याकरणम् ।

(१३.) हकारादिषु अकार: किमर्थम् ?- उच्चारणार्थ:। (१४.) सूत्राणां प्रकाराः कति ? के ते ? – सप्त– संज्ञा,परिभाषा, विधि:, नियम:, निषेधः, अतिदेश:,अधिकार:।

(१५.) व्याकरणस्य कति सम्प्रदायाः सन्ति ? – अष्टौ । (१६.) किं नाम संज्ञासूत्रम् ? – संज्ञासंज्ञिसम्बन्धबोधकं सूत्रम् ।

(१७.) किं नाम परिभाषात्वम् ? – अनियमे नियमकारिणीत्वम् ।

(१८) किं नाम विधिसूत्रम् ? – आगम-आदेशादिविधायकं सूत्रम् ।

(१९.) सम्प्रति व्याकरणस्य प्रतिनिधिग्रन्थः कः ? – शब्दानुशासनम् ।

(२०.) को नाम नियम: ? – सिद्धे सति आरभ्यमाण: विधि: नियम: ।

(२१.) को नाम अतिदेश: ? – अविद्यमानस्य धर्मस्य विद्यमानत्वकल्पनम् ।

(२२.) किं नाम अधिकारत्वम् ? – स्वदेशेफलशून्यत्वे सति उत्तरत्र फलजनकत्वम् ।

(२३.) अष्टाध्याय्याः प्रथमसूत्रं किम् ? – वृद्धिरादैच् । (२४.) अन्त्यहलाम् इत्संज्ञाविधायकं सूत्रं किम् ?- हलन्त्यम् (१.३.३)

(२५.) अनुनासिकाचाम् इत्संज्ञाविधायकं सूत्रं किम् ?- उपदेशेऽजनुनासिक इत् (१.३.२)

(२६.) आदिरन्त्येन सहेता (१.१.७१) इति सूत्रेण किं विधीयते ?- प्रत्याहारसंज्ञा ।

(२७.) प्रत्याहारेषु इतामग्रहणे किं प्रमानम् ? – अनुनासिक इत्यादिनिर्देश:।

(२८.) कस्य ह्रस्व: , दीर्घ:, प्लुत: इति संज्ञा ? उत्तरः–एकमात्राकालिकस्य अच: ह्रस्व: इति, द्विमात्राकालिकस्याच: दीर्घ: इति, त्रिमात्राकालिकस्य अच: प्लुत: इति संज्ञा।

(२९.) अनुनासिकसंज्ञासूत्रम् किम् ?- मुखनासिकावचनोऽनुनासिक:(१.१.८)।

(३०.) अकारस्य कति भेदा: ?- अष्टादश ।

(३१.) लृवर्णस्य क: भेद: नास्ति ? – दीर्घ: ।

(३२.) एचां क: भेद: नास्ति ? – ह्रस्व: ।

(३३.) सवर्णसंज्ञासूत्रं किम् ? – तुल्यास्यप्रयत्नं सवर्णम् (१.१.९) ।

(३४.) कण्ठस्थानं केषां वर्णानाम् ? – अकुहविसर्जनीयानाम् ।

(३५) तालुस्थाने के के वर्णा: निष्पद्यन्ते ? – इचुयशा:। (इ,ई,च्,छ्,ज्,झ्,ञ्,य्,श्)

(३६.) केषां वर्णानाम् उत्पत्तिस्थानं मूर्धा ? – ऋटुरषाणाम् ।

(३७.) लृतुलसा: कुत्र निष्पद्यन्ते ? – दन्तेषु ।

(३८.) उपूपधमानीयानाम् उत्पत्तिस्थानं किम् ? – ओष्ठौ।

(३९.) ञमङणनानां क: अधिक: गुण: ? – नासिका । (४०.) वकारस्य निस्पत्तिस्थानं किम् ? – दन्तोष्ठम् । (४१.) अनुस्वार: क्व निष्पद्यते ? – नासिकायाम् । (४२.) प्रयत्न: कतिविध: ? – द्विविध: ।

(४३.) तौ प्रयत्नौ कौ ? – आभ्यन्तर:, बाह्य: ।

(४४.) आभ्यन्तर: कतिविध: ? – पञ्चविधः ।

(४५.) ते आभ्यन्तरा: के ? – स्पृष्टम् , ईषत्-स्पृष्टम् , विवृतम् , ईषत्-विवृतम् , संवृतम् च ।

(४६.) स्पृष्टप्रयत्न: केषां वर्णानाम् ? – स्पर्शानाम्। (४७.) ईषत्स्पृष्टं केषां वर्णानाम् ? – अन्त:स्थानाम्। (४८.) केषां वर्णानां विवृतप्रयत्न: ? – ऊष्माणां स्वराणाञ्च ।

(४९.) कस्य संवृतम् ? – ह्रस्वस्य अकारस्य प्रयोगे संवृतम्।

(५०.) विवृतस्य अकारस्य संवृतत्वं केन सूत्रेण विधीयते ? – अ अ (८.४.६७)

(५१.) पूर्वत्रासिद्धं (८.२.१) कीदृशं सूत्रम् ? – अधिकारसूत्रम् ।

(५२.) यमो नाम क: ? – वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे पूर्व सदृश: कश्चिद् वर्ण: ” यम:” भवति।

(५३.) स्पर्शवर्णा: के ? – ककारादारभ्य मकारपर्यन्तम्। (कादयो मावसानाः ।

(५४.) अन्त:स्था: के ? – य्, र्, ल्, व् ।

(५५.) ऊष्माण: के ? – श्, ष्, स्, ह् ।

(५६.) स्वरा: के ? – अच: ।

(५७.) को नाम जिह्वामूलीय: ? – ॅ क ॅ ख इति कखाभ्यां प्राग् अर्धविसर्गसदृश: ।

(५८.) उपध्मानीयो नाम क: ? – ॅ प ॅ फ इति पफाभ्यां प्राग् अर्धविसर्गसदृश: ।

(५९.) सवर्णग्राहकं सूत्रं किम् ? -अणुदित्सवर्णस्य चाप्रत्यय:(१.१.६८)

(६०.) बाह्यप्रयत्ना: कति ? – एकादश ।

(६१.) ते च के ? – विवार:, संवार:, श्वास:, नाद: घोष:, अघोष:, अल्पप्राण:, महाप्राण:, उदात्त: अनुदात्त:, स्वरित: ।

(६२.) तपर: इत्यत्र कथं विग्रह: ? क: समास: ? – त: परो यस्मात् सो तपर इति बहुव्रीहि:, तात् पर: तपर: इति तत्पुरुषो वा ।

(६३.) वृद्धिरादैच् इति कीदृशं सूत्रम् ? – संज्ञासूत्रम् । (६४.) गुणसंज्ञासूत्रं किम् ? – अदेङ् गुण: । (१.१.२) (६५.) धातुसंज्ञासूत्रं किम् ? – भूवादयो धातव: ।(१.३.१)

(६६.) प्रादय: कति ? – द्वाविंशति: (२२)

(६७.) के च ते ? – प्र ,परा ,अप ,सम्,अनु, अव, निस् , निर्, दुस् , दुर् ,वि , आङ् , नि , अधि, अपि ,अति , सु , उत् , अभि , प्रति ,परि , उप ।

(६८.) उपसर्गसंज्ञासूत्रं किम् ? – प्रादयः उपसर्गा: क्रियायोगे (१.४.५८)

(६९.) लिङ्गानुशासनम् इत्यस्य कर्त्ता कः ?–व्याडिः । (७०.) वाक्यपदीयम् कस्य रचना ? –भर्तृहरेः ।

(७१.) पतञ्जलि-प्रणीतः ग्रन्थः कः ? –महाभाष्यम् । (७२.) व्याकरण-शब्दस्य व्युत्पत्तिः का ? -व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेनेति व्याकरणम् ।

(७३.) व्याकरणस्य सम्प्रदायः कति के च ?—अष्टौ–ऐन्दम्, चान्द्रम्, काशकृत्स्नम्, कौमारम्, शाकटायनम्, सारस्वतम्, आपिशलम्, शाकलम् ।

(७४.) प्रसिद्धं व्याकरणम् किम् ? –पाणिनीयम् । (७५.) मुनित्रये केषां समावेशो भवति ? –पाणिनिः, कात्यायनः, पतञ्जलिः ।

(७६.) वार्तिकारः कः ? –कात्यायनः ।

(७७.) भट्टोजिदीक्षित-कृत-प्रौढमनोरमायाः खण्डनं केन कृतम् ?–जगन्नाथेन ।

(७८.) मनोरमाकूचमर्दनम् इत्यस्य लेखकः कः ? –पंडितराजो जगन्नाथः ।

(७९.) वरदराजस्य रचनाकार्याणि कानि ? –लघुसिद्धान्तकौमुदी, मध्यसिद्धान्कौमुदी, सारकौमुदी च ।

(८०.) पाणिनीये अष्टाध्यायी-ग्रन्थे कति सूत्राणि ?–३९६४

(८१.) धातवः कतिषु गणेषु विभक्ताः सन्ति ? –दशषु गणेषु ।

(८२.) धातु-गणानां नामानि कानि ?–भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिः ।

(८३.) शब्देन्दुशेखरः इत्यस्य लेखकः कः ? –नागेशभट्टः ।

(८४.) कति धातवः सन्ति ?–१९७०

(८५.) प्रत्याहारसूत्रेषु मूल-स्वराः के ? –पञ्च–अ, इ, उ, ऋ, लृ ।

(८६.) वाक्यपदीयस्य कति काण्डानि सन्ति ?—त्रीणि–ब्राह्मकाण्डम्, वाक्यकाण्डम्, पदकाण्डम् । (८७.) महाभाष्यस्य कैयटरचिता व्याख्या का ?–प्रदीपः ।

(८८.) अष्टाध्याय्याः प्रथमा वृत्तिः का ?–काशिका । (८९.) काशिकायाः लेखकौ कौ ?–जयादित्यः वामनश्च ।

(९०.) काशिकायाः व्याख्या–काशिका-विवरण-पञ्जिका इत्यस्य लेखकः कः ?–जिनेन्द्रबुद्धिः ।

(९१.) काशिका-विवरण-पञ्जिका इत्यस्य अपरं नाम किम् ?–न्यासः ।

(९२.) काशिकायाः अपरा व्याख्या का ? –पदमञ्जरी ।

(९३.) पदमञ्जरी इत्यस्य रचनाकारः कः ?–हरदत्तमिश्रः ।

(९४.) वैयाकरणभूषणसारः इत्यस्य प्रणेता कः ?–कौण्डभट्टः ।

(९५.) परिभाषेन्दुशेखरः इत्यस्य लेखकः कः ? –नागेशभट्टः ।

(९६.) परिभाषेन्दुशेखरस्य विषय़ः कः ?–पाणिनीयव्याकरणस्य परिभाषायाः विवेचनम् ।

(९७.) महाभाष्यप्रदीपस्य सुप्रसिद्धा व्याख्या का ?–उद्योतः ।

(९८.) उद्योतस्य लेखकः कः ?–नागेशः ।

(९९.) नागेशस्यान्या रचना का ?–वैयाकरणसिद्धान्तमञ्जूषा, लघुमञ्जूषा, परमलघुमञ्जूषा ।

(१००.) शब्दकौस्तुभः इत्यस्य लेखकः कः ?–भट्टोजिदीक्षितः 🙏🙏

Advertisements

एक उत्तर दें

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Google+ photo

You are commenting using your Google+ account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s